Posted on 22-Nov-2026 02:10 PM

येन स्वयंबोधमयेन लोका, आश्वासिताः केचन वित्तकायें।
प्रबोधिताः केचन मोक्ष - मार्गे, तमादिनाथं प्रणमामि नित्यम्।।१।।
इन्द्रादिभिः क्षीरसमुद्र तोयैः, संस्नापितो मेरुगिरौ जिनेन्द्रः।
यः कामजेता जन-सौख्यकारी, तंशुद्ध-भावा-दजितं नमामि।।२।।
ध्यान-प्रबन्धः प्रभवेन येन, निहत्य कर्म प्रकृक्तिः समस्ताः।
मुक्ति स्वरूपां पदवीं प्रपेदे, तं संभवं नौमि महानुरागात् ।।३।।
स्वप्ने यदीया जननी क्षपायां, गजादि वहन्यन्तमिदं ददर्श।
यत्तात इत्याह गुरुः परोऽयं, नौमि प्रमोदा-दभिनंदनं तम् ।।४।।
कुवादिवादं जयता महान्तं, नय प्रमाणैर्वचनैर्जगत्सु ।
जैनं मतं विस्तरितं च येन, तं देवदेवं सुमतिं नमामि ।।५।।
यस्यावतारे सति पितृधिष्ण्ये, ववर्ष रत्नानि हरे निदेशात्
धनाधिपः षण्णव-मास पूर्व, पद्मप्रभं तं प्रणमामि साधुम् ।।६।।
नरेन्द्र-सर्वेश्वर नाक - नाथैर-वाणी भवन्ती जगृहे स्वचित्ते।
यस्यात्म-बोधः प्रथितः सभाया- महं सुपार्श्व ननु ते नमामि ।।७।।
सत्प्रातिहार्यातिशय- प्रपन्नो, गुण प्रवीणो हत दोष संगः।
यो लोक-मोहान्ध-तमः प्रदीपश्, चन्दप्रभं तं प्रणमामि भावात् ।।८।।
गुप्तित्रयं पंच महाव्रतानि, पंचोपदिष्टाः समितिश्च येन।
बंभाण यो द्वादशधा तपांसि, तं पुष्पदंतं प्रणमामि देवम् ।।९।।
ब्रह्मा-व्रतांतो जिन नायकेनोत् तम क्षमादि दर्शधापि धर्मः।
येन प्रयुक्तो व्रत - बंध - बुद्ध्या, तं शीतलं तीर्थकरं नमामि ।।१०।।
गणे जनानंदकरे धरान्ते, विध्वस्त कोपे प्रशमैक चित्ते।
यो द्वादशांगं श्रुतमादि-देश श्रेयांसमानौमि जिनं तमीशम् ।।११।।
मुक्त्यंगनाया रचिता विशाला, रत्नत्रयी शेखारता च येन।
यत्कंठ - मासाद्य बभूव श्रेष्ठा, तं वासुपूज्यं प्रणमामि वेगात् ।।१२।।
ज्ञानी विवेकीपरम-स्वरूपी, ध्यानी ढती प्राणि हितोपदेशी।
मिथ्यात्व - घाती शिवसौख्य भोजी, बभूव यस्त विमलं नमामि ।।१३।।
आभ्यंतरं बाह्य मनेकधायः, परिग्रहं सर्व मपाचकार ।
यो मार्ग- मुद्दिश्य हितं जनानां, वन्दे जिनं तं प्रणमाम्यनंतम् ।।१४।।
सार्द्ध पदार्था नव सप्त तत्त्वैः, पंचास्तिकायाश्च न काल कायाः।
षड्द्रव्य निर्णीति-रलोक युक्तिर्, येनोदिता तं प्रणमामि धर्मम् ।।१५।।
यश्वक्रवर्ती भुवि पञ्चमोऽभूच्, छी नंदनो द्वादशको गुणानाम।
निधि प्रभुः षोडशको जिनेन्द्रस, तं शांतिनाथं प्रणमामि भेदात् ॥१६॥
प्रशंसितो यो न विभर्ति हर्ष, विरोधितो यो न करोति रोषं।
शीलं व्रताद ब्रह्मपदं गतो यस, तं कुंथुनाथं प्राणमामि हर्षात् ।।१७॥
न संस्तुतो न प्रणतः सभायां, यः से वितो ऽन्तर्गण पुरणाय।
पदाच्युतैः केवलिभि - र्जिनस्य, देवाधिदेवं प्रणमाम्यरं तम्।।१८।।
रत्नत्रयं पूर्व भवान्तरे यो, वतं पवित्रं कृतवा नशेषम्।
कायेन वाचा मनसा विशुद्ध्या, तं मल्लिनाथं प्रणमामि भक्त्या।।१९।।
ब्रुवन्नमः सिद्ध-पदाय वाक्य मित्यग्रहीद्यः स्वयमेव लोचम्।
लौकान्तिकेभ्यः स्तवनं निशम्य, वन्दे जिनेशं मुनिसुव्रतं तम् ।।२०।।
विद्यावते तीर्थंकराय तस्मा याहार दानं ददतो विशेषात्।
गृहे नृपस्या-जनि रत्नवृष्टिः, स्तौमि प्रमाणान नयतो नमीं तम् ।।२१।।
राजीमतीं यः प्रविहाय मोक्षे, स्थितिं चकारा पुनरागमाय।
सर्वेषु जीवेषु दया दधानस्, तं नेमिनाथं प्रणमामि भक्त्या ।।२२।।
सर्पाधिराजः कमठारितो - यैर्, ध्यान स्थितस्यैव फणावितानैः ।
यस्योपसर्ग निरवर्त - यत्तं, नमामि पार्श्व महदादरेण।।२३।।
भवार्णवे जन्तु समूहमेन माकर्षयामास हि धर्मपोतात्।
मज्जन्तमुद्वीक्ष्य य येन सापि श्री वर्धमानं प्रणमाम्यहं तं ।।२४।।
यो धर्म दशधा करोति पुरुषः स्त्री वा कृतोपस्कृतं,
सर्वज्ञ - ध्वनि - संभवं त्रिकरण-व्यापार-शुद्ध्यानिशम् ।
भव्यानां जयमालया विमलया पुष्पांजलिं दापयन्,
नित्यं स श्रियमातनोति सकलं स्वर्गापवर्ग स्थितम् ।।२५ ।।
रचियता - आचार्य श्री विमल सागर जी महाराज
0 Comments