प्रारम्भिक पूजन विधि



ॐ जय जय जय !नमोऽस्तु  नमोऽस्तु नमोऽस्तु 

णमो अरिहंताणं,

णमो सिद्धाणं ,

णमो आयरियाणं,

णमो उवज्झायाणं,

णमो लोए सव्व साहूणं !

ॐ ह्रीं अनादिमूलमंत्रेभ्यो नम:(पुष्पांजलि क्षिपेत् )

"चत्तारि मंगलं,अरिहंता मंगलं सिद्धा मंगलं साहू मंगलं केवलि पण्णत्तो धम्मो मंगलं !"

"चत्तारि लोगुत्तमा,अरिहंता लोगुत्तमा,सिद्धा लोगुत्तमा,साहू लोगुत्तमा,केवलि पण्णत्तो धम्मो लोगुत्तमो!" 

"चत्तारि सरणं पव्वज्जामि,अरिहन्ते सरणं पव्वज्जामि,सिद्धे सरणं पव्वज्जामि,साहू सरणं पव्वज्जामि !केवलि पण्णत्तं धम्मं सरणं पव्वज्जामि "

ॐ नमोऽर्हंते स्वहा !(पुष्पांजलि  क्षिपेत्)

अपवित्र: पवित्रो वा सुस्थितो दु:स्थितोऽपि वा ! ध्यायेत्पंच-नमस्कारं सर्वपापैः प्रमुच्यते ॥१॥

अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा!यः स्मरेत् परमात्मानं स बाह्याभ्यंतरे शुचि: ॥२॥

अपराजित-मंत्रोऽयं -सर्व-विघ्न-विनाशनः ।मंगलेषु च सर्वेषु प्रथमं मंगलं मतः॥३!!

एसो पञ्च णमो यारो सव्व-पावप्पणा -सणो !मंगलाणं च सव्वेसिं पढ़मं होइ मंगलं !!४!!

अर्हं-मित्य-क्षरं ब्रह्म:-वाचकं परमेष्ठिनः।सिद्ध-चक्रस्य सद्बीजं सर्वतःप्रणमाम्यहम् ॥५!!

कर्माष्टक विर्निमुक्तं,मोक्ष लक्ष्मी-निकेतनं।सम्यक्तवादि-गुणोपेतं-सिद्धचक्रं नमाम्यहम्॥६!!

"विघ्नौघाः प्रलयं-यान्ति,शाकिनी-भूत-पन्नगाः!विषं निर्विषतां याति,स्तूयमाने,जिनेश्वरे ॥७॥"

 पुष्पांजलि क्षिपेत् 

पंच परमेष्ठि अर्घ 

उदक-चन्दन-तंदुल-पुष्पकैश्चरु-सुदीप-सुधूप-फलार्घकै :

धवल मंगल-गान रवाकुलें जिनगृहे जिन नाम महंयजे(यजामहे)

ॐ ह्रीं श्री भगविज्जिन अष्टोत्तरसहस्रनामभ्यो अर्घं निर्वपामीति स्वाहा !

उदक-चन्दन-तंदुल-पुष्पकैश्चरु-सुदीप-सुधूप-फलार्घकै :

धवल-मंगल-गान रवाकुलें जिनगृहे -कल्याण महंयजे !!

ॐ ह्रीं श्री भगवतोगर्भजन्मतपज्ञाननिर्वाण पञ्च कल्याणकेभ्योऽर्घं निर्वपामीति स्वाहा !

उदक-चन्दन-तंदुल-पुष्पकैश्चरु-सुदीप-सुधूप-फलार्घकै :

धवल-मंगल-गान रवाकुलें जिनगृहे-जिननाथ महंयजे !! 

ॐ ह्रीं श्री अर्हंत-सिद्धाचार्योपाध्याय सर्व साधुभ्योऽर्घं निर्वपामीति स्वाहा !

उदक-चन्दन-तंदुल-पुष्पकैश्चरु-सुदीप-सुधूप-फलार्घकै :

धवल-मंगल-गान रवाकुलें जिनगृहे जिनसूत्र  महंयजे !! 

ॐ ह्रीं सम्यग्दर्शन-ज्ञान-चारित्राणि तत्वार्थसूत्र दशाध्याय अर्घं निर्वपामीति स्वाहा !

पूजा प्रतिज्ञा पाठ

श्री मज्जिनेन्द्र-मभि-वंध्य-जगत-त्रेयशं,स्याद्-वाद-नायक-मनंत-चतुष्ट-यार्हम् ।

श्री-मूल-संघ-सुदृशां -सुकृ-तैक-हेतुर,जैनेन्द्र-यज्ञ-विधि-रेष-मयाऽभ्य-धायि॥१॥

स्वस्ति  त्रिलोक -गुरुवे  जिन  पंगुवाय ,स्वस्ति स्वभाव-महिमोदाय-सुस्थिताय !

स्वस्ति प्रकाश सह-जोज्जिर्त -दृङ्मयाय,स्वस्ति प्रसन्न-ललिताद्-भुत-वैभवाय !!२!!

स्वस्-त्युच्-छलद्-विमल-बोध-सुधा-प्लावाय,स्वस्ति  स्वभाव -परभाव -विभास -काय ।

स्वस्ति  त्रिलोक - विततैक -चिदुद् - गमाय,स्वस्ति त्रिकाल-सकलायत-विस्तृताय॥३!!

द्रव्यस्य शुद्धि-मधि-गम्य यथानुरूपं,भावस्य शुद्धि-मधिका-मधिगंतुकामः।

आलंबनानि विविधान्-यवलम्ब् वल्गन्भूतार्थ-यज्ञ-पुरूषस्य करोमि यज्ञम्॥४॥

अर्हंन्    पुराण   -पुरूषोत्तम   -पावनानि,वस्तून् -यनून -मखिलान्  -ययमेक एव।

अस्मिन ज्वलद् विमल-केवल-बाध वह्नौ, पुण्यं -समग्र -मह -मेक -मना   जुहोमि ॥५॥

ॐ ह्रीं विधियज्ञायै जिन प्रतिमाग्रे पुष्पांजलि क्षिपामि

स्वस्ति मंगल पाठ:

श्री वृषभो न:स्वस्ति ,स्वस्ति श्री अजित:!

श्री सम्भव: स्वस्ति,स्वस्ति श्री अभिनन्दन:!

श्री सुमति: स्वस्ति,स्वस्ति श्री पद्मप्रभ:!

श्री सुपार्श्व:स्वस्ति,स्वस्ति श्री चन्द्रप्रभ:!

श्री पुष्पदंत:स्वस्ति ,स्वस्ति श्री शीतल:!

श्री श्रेयांस:स्वस्ति,स्वस्ति श्री वासुपूज्य :!

श्री विमल:स्वस्ति,स्वस्ति  श्री अनन्त:!

श्री धर्म:स्वस्ति,स्वस्ति श्री शांति:!

श्री कुन्थु: स्वस्ति ,स्वस्ति श्री अरनाथ:!

श्री मल्लि: स्वस्ति, स्वस्ति श्री मुनिसुव्रत:!

श्री नमि :स्वस्ति,स्वस्ति श्री नेमिनाथ:!

श्री पार्श्व:स्वस्ति,स्वस्ति श्री वर्द्धमान:!

पुष्पांजलि क्षिपेत् !

परमर्षि स्वस्ति (मंगल) पाठ:

नित्या-प्रकंपाद्भुत-केवलौघाः, स्फुरन्मनः पर्यय-शुद्धबोधाः |

दिव्या-वधि-ज्ञान-बल-प्रबोधाः, स्वस्ति क्रियासुः परमर्षयो नः ||१!!

कोष्ठस्थ-धान्योप-ममेक बीजं संभिन्न संश्रोत्रतृ पदानुसारि  

चतुर्विधं बुद्धिबलं दधानाः, स्वस्ति क्रियासुः परमर्षयो नः!!२!!

संस्पर्शनं संश्रवणं च दूरा -दास्वादन-घ्राण-विलोकनानि |

दिव्यान् -मतिज्ञान-बलाद्वहंतःस्वस्ति क्रियासुः परमर्षयो नः ||३!!

प्रज्ञा-प्रधानाः श्रमणाः समृद्धाः, प्रत्येक-बुद्धाः दशसर्वपूर्वैं: |

प्रवादिनोऽष्टांग-निमित्त-विज्ञाः, स्वस्ति क्रियासुः परमर्षयो नः ||४!!

जंघा-नल-श्रेणि-फलांबु-तंतु-प्रसून-बीजांकुर-चारणाह्वाः|

नभोऽगंण-स्वैर-विहारिणश्च स्वस्ति क्रियासुः परमर्षयो नः ||५!!

'अणिम्नि दक्षाः कुशलाः महिम्नि,लघिम्नि शक्ताः कृतिनो गरिम्णि |

मनो-वपुर्वाग्बलिनश्च नित्यं, स्वस्ति क्रियासुः परमर्षयो नः'||६!!

सकामरुपित्व-वशित्वमैश्यं,प्राकाम्यमन्तर्द्धि मथाप्तिमाप्ताः |

तथाऽप्रतीघातगुणप्रधानाः,स्वस्ति क्रियासुःपरमर्षयो नः ||७!!

दीप्तं च तप्तं च तथा महोग्रं,घोरं तपो घोर परा-क्रमस्थाः|

ब्रह्मापरं घोरगुणं चरंत:,स्वस्ति क्रियासुःपरमर्षयो नः ||८!!

आमर्ष-सर्वौषधयस्तथाशी,र्विषाविषा दृष्टिविषाविषाश्च |

स-खिल्ल-विड्ज्जल-मलौषधीशा ,स्वस्ति क्रियासुः परमर्षयो नः !!९!!

क्षीरं स्रवंतोऽत्र घृतं स्रवंतः, मधु स्रवंतोऽप्यमृतं स्रवंतः |

अक्षीणसंवास-महानसाश्च स्वस्ति क्रियासुः परमर्षयो नः !!१०!!

इति परमर्षि स्वस्ति मंगल विधानं परिपुष्पांजलि क्षिपेत् 

विनय पाठ की लिंक -

https://www.jainsaar.com/jain-pujan/vinay-paath